सूत्रम्
अस्ताति च॥ ५।३।४०
काशिका-वृत्तिः
अस्ताति च ५।३।४०
सप्तम्यान्तम् एतत्। अस्तातिप्रत्यये परतः पुर्वादीनां यथासङ्ख्यं पुरादय आदेशा भवन्ति। इदम् एव आदेशविधानं ज्ञापकम् , अस्तातिरेभ्यो भवति, असिप्रत्ययेन न आध्यते इति। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्।
न्यासः
अस्ताति च। , ५।३।४०
ननु चासिना बधितत्वात्? पूर्वादिभ्योऽस्तातिना न भवितव्यम्()? इत्याह--"इदमेव" इत्यादि। गतार्थम्()॥
बाल-मनोरमा
अस्ताति च , ५।३।४०
अस्ताति च। "अस्ताती"ति लुप्तसप्तमीकम्, अस्तातीति तकारान्तात्सप्तम्येकवचनं वा। "पूर्वाधरावराणा"मिति "पुरधव" इति चानुवर्तते। तदाह--अस्ताताविति। यद्यपि सूत्रक्रमे "पूर्वाधरे"ति "अस्ताति चे"ति सूत्रमुपन्यसनीयम्। तत्रानुवृत्तिप्रदर्शनाय "पूर्वाधरे"त्यपि सूत्रमिहैवोपन्यस्तम्। पुर इति। पूर्वाशब्दादसिप्रत्ययः प्रकृतेः "पुर्" आदेशः। पुरस्तादिति। पूर्वाशब्दादस्तातिप्रत्ययः, प्रकृतेः "पुर्" आदेशः। अधः, अधस्तादिति। अधरशब्दादसिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः "अध्" आदेशे रूपम्। अव इति। अवरशब्दादसिप्रत्ययेप्रकृतेः "अव्" आदेशे रूपम्।
तत्त्व-बोधिनी
अस्ताति च १४८५, ५।३।४०
पुरः पुरस्तादिति। कथं तर्हि "पश्यामि तामित इतः पुरतश्च पश्चा"दिति भवभूतिः, "स्यात्पुरः परुतोऽग्रतः"इत्यमरः, "पुरतः प्रथमे चाऽग्रे"इति वि()आस्च()। "समानकालीनं" "पूर्वकालीन"मित्यादिवत्प्रामादिकमेवेति बहवः। केचित्तु "दक्षिणोत्तराभ्यां तसुज्विधिनैवेष्टसिद्धौ "अतसु"जित्यकारोच्चारणमन्यतोऽपि विधानार्थम्। तेन पुरत इति सिध्यति। "पुर अग्रगमने" क्विपि--पुर्। "र्वोः"इति दीर्घस्तु न भवति, भत्वात्। न च अतसुचाश्चित्त्वेऽप्यकारोच्चारणं पक्षे आद्युदात्तत्वार्थमिति वाच्यं, बहूनां प्रयोगानुरोधेनाऽन्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वादित्याहुः। यथासङ्ख्यत्वानाश्रयणात् पुरस्ताद्वसति पुरस्तादागतः पुरस्ताद्रमणीयम्। अधस्ताद्वसति अधस्तादागतः--इत्यादि सिध्यति।